|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.37. अध्यायः 037
Mahabharata - Shanti Parva - Chapter Topics
राजमार्गे नागरैः स्तूयमानस्य युधिष्ठिरस्य राजगृहमेत्य सभाप्रवेशः॥ 1॥ तत्र युधिष्ठिरं निन्दतश्चार्वाकराक्षसस्य ब्राह्मणैर्हुंकारेण भस्मीकरणम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-37-0x(5415)(66252)
प्रवेशने तु पार्थानां जनानां पुरवासिनाम्।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः॥ 12-37-1(66253)
स राजमार्गः शुशुभे समलंकृतचत्वरः।
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः॥ 12-37-2(66254)
गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च।
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत॥ 12-37-3(66255)
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्।
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ॥ 12-37-4(66256)
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्।
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी॥ 12-37-5(66257)
तव कर्माण्यमोघानि व्रतचर्या च भामिनि।
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः॥ 12-37-6(66258)
प्रशंसावचनैस्तासां मिथः शब्दैश्च भारत।
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्॥ 12-37-7(66259)
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः।
अलंकृतं शोभमानमुपापाद्राजवेश्म ह॥ 12-37-8(66260)
ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा।
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः॥ 12-37-9(66261)
दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन।
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च॥ 12-37-10(66262)
भव नस्त्वं महाराज राजेह शरदां शतम्।
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा॥ 12-37-11(66263)
एवं राजकुलद्वारि मङ्गलैरभिपूजितः।
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः॥ 12-37-12(66264)
प्रविश्य भवनं राजा देवराजगृहोपमम्।
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्॥ 12-37-13(66265)
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च।
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः॥ 12-37-14(66266)
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः।
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान्॥ 12-37-15(66267)
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः।
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा॥ 12-37-16(66268)
तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान्।
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा।
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः॥ 12-37-17(66269)
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च।
`प्रविवेश सभां राजा सुधर्मां वासवो यथा॥' 12-37-18(66270)
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत।
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः॥ 12-37-19(66271)
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती।
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा॥ 12-37-20(66272)
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः।
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप॥ 12-37-21(66273)
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः।
राजानं ब्राह्मणच्छझा चार्वाको राक्षसोऽब्रवीत्॥ 12-37-22(66274)
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः।
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः॥ 12-37-23(66275)
वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः।
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः॥ 12-37-24(66276)
सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्।
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्॥ 12-37-25(66277)
चार्वाक उवाच। 12-37-26x(5416)
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि।
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै॥ 12-37-26(66278)
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्।
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्॥ 12-37-27(66279)
इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः।
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः॥ 12-37-28(66280)
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः।
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशांपते॥ 12-37-29(66281)
युधिष्ठिर उवाच। 12-37-30x(5417)
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः।
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ॥ 12-37-30(66282)
वैशम्पायन उवाच। 12-37-31x(5418)
ततो राजन्ब्राह्माणास्ते सर्व एव विशांपते।
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव॥ 12-37-31(66283)
जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा।
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः॥ 12-37-32(66284)
ब्राह्मणा ऊचुः। 12-37-33x(5419)
एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः।
परिव्राजकरूपेण हितं तस्य चिकीर्षति॥ 12-37-33(66285)
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह॥ 12-37-34(66286)
वैशम्पायन उवाच। 12-37-35x(5420)
ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्च्छिताः।
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्॥ 12-37-35(66287)
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्।
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव॥ 12-37-36(66288)
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्।
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः॥ ॥ 12-37-37(66289)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तत्रिंशोऽध्यायः॥ 37॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-37-3 स्त्रीणां स्त्रीभिः॥ 12-37-15 अभिरूपान्मङ्गलद्रव्यपाणीन्॥ 12-37-17 किमिच्छसि किमिच्छसीति पृच्छद्भिर्भृत्यैर्विविधैर्गोवस्त्रादिद्रव्यैर्निमन्त्रयद्भिरित्यर्थः॥ 12-37-19 स्तब्ध्धा व्याप्य॥ 12-37-23 साक्षः शिखीति झ.पाठः॥ 12-37-30 प्रत्यासन्नाः समीपस्थाः व्यसनिनश्चिरदुःखिनो भ्रात्रादयो यस्य तम्। भ्रात्रादिदुःखपरिहारार्थं ममेदं राज्यकरणं नतु स्वसुखार्थमित्यर्थः॥ 12-37-32 जज्ञुर्ज्ञातवन्तः॥ 12-37-33 चार्वाको नाम राक्षसः इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|